कृष्णो रक्षतु मां चराचरगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं
कृष्णे भक्तिरचञ्चलाऽस्तु भगवन् हे कृष्ण तुभ्यं नमः॥
विना वेदं विना गीतां विना रामायणीं कथाम् ।
विना कविं कालिदासं भारतं भारतं न हि ।।
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।।