वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ।
ध्यायमि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् ।।
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् ।
संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् ॥
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन् ।
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ॥
ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु
मा कश्चिद् दुःखभाग् भवेत् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
artwork©Rajini V